सूत्र
:
जटिलो
मुण्डी
लुग्चितकेशः
काषायाम्बरबहुकृतवेषः।
पश्यन्नपि
च न पश्यति
मूढ़ो
ह्युदरनिमित्तं
बहुकृतवेषः।।
अंगं
गलितं पलितं
मुण्डं
दशनविहीनं
जातं तुण्डम्।
वृद्धो
याति
गृहीत्वा
दण्डं तदपि न
मुग्चत्याशापिण्डम्।।
अग्रे
वह्निः
पृष्ठे भानू
रात्रौ
चुबुकसमर्पितजानुः।
करतलभिक्षस्तरुतलवासः
तदपि न
मुग्चत्याशापाशः।।
कुरुते
गंगासागरगमनं
व्रतपरिपालनमथवा
दानम्।
ज्ञानविहीनः
सर्वमतेन
मुक्तिं नः
भजति जन्मशतेन।।
सुरमंदिरतरुमूलनिवासः
शय्या
भूतलमजिनं
वासः।
सर्वपरिग्रहभोगत्यागः
कस्य सुखं न
करोति विरागः।।
योगरतो
वा भोगरतो वा
संगरतो वा
संगविहीनः।
यस्य
ब्रह्मणि
रमते चित्तं
नन्दति
नन्दति नन्दत्येव।।